Tivra Chandi Stotram । । तीव्र चण्डिका स्तोत्र । ।चंडी देवी का प्रचंड स्तोत्र

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024
  • या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा
    श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा ।
    द्विजगणनमिताज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य प्रबोधा
    सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ १॥
    ॐ ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रे
    क्रां क्रीं क्रूं क्रोधमूर्तिर्भिः कृतस्तवमुखे रौद्रदंष्ट्राङ्कराले ।
    कुचमुखेकं कं कं कालरात्रिः भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती
    हूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ २॥
    ॐ ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनीत्रे
    रां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे ।
    लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्टहासैः
    कं काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ३॥
    ॐ घ्रां घ्रीं घ्रूं घोररूपे घघघघ घटितैर्घर्घुरारावघोरे
    निर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने ।
    ॐ द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागैः var तले
    क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ४॥
    स्रक्सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारको हार कण्ठे
    सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ५॥
    ॐ खं खं खं गवस्ते वरकनकनिभे सूर्यकान्ति स्वतेजः
    विद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन ।
    वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्ती
    सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ६॥
    ॐ हुं हुं हुं फट् कालरात्रिः उरु (रु रु) सुरमथिनी धूम्रमारी कुमारी
    ह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितिकिलिकिला शब्द अट्टाट्टहासे ।
    हा हा भूत प्रभूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती
    हूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ७॥
    ॐ भृङ्गी कालीकपाली परिजनसहिते चण्डिचामुण्डनित्या
    रों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते ।
    ह्रुं ह्रुं ह्रुङ्कारकारी सुरगणनमिते कालकारी विकारी
    त्र्यैलोक्यं वश्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ८॥
    ॐ वन्दे दण्डप्रचण्डा डमरुमणिमारणष्टोपटङ्कारघण्टै
    नृत्यन्ती याट्टपातैः रटपट विभवैर्निर्मला मन्त्रमाला ।
    शुष्के कुक्षे वहन्ती खरखरितसखा चार्चिनी प्रेतमाला
    उच्चैशैत्याट्टहासैः घरुघरितरवा त्वं चण्डमुण्डा प्रचण्डा ॥ ९॥
    ॐ त्वं ब्राह्मी त्वं च रौद्री त्वं सच शिकगमना त्वं च देवी कुमारी
    त्वं चक्रे चक्रहस्ता घरुघरितरवा त्वं वराहस्वरूपा ।
    रौद्रे त्वं चर्ममुण्डा सकलभुवितले संस्थिते सर्वमार्गे
    पाताले शैलशृङ्गे हरिहरनमिते देवी चण्डी नमस्ते ॥ १०॥
    नमस्ते नमस्ते नमः
    #Toddyclasses
    ॐ रक्षत्वं मुङ्डधारी गिरिगुहविहरे निर्झरे पर्वते वा
    सङ्ग्रामे शत्रुमध्ये विशविशभविते सङ्कटे कुत्सिते वा ।
    व्याघ्रे चौरे च सर्वेप्युः दधिभुवितले तथा वह्निमध्ये दुर्गे
    रक्षेत्वां दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ११॥
    इत्येवं बीजमन्त्रैः स्तवनमति शिवं पातकं व्याधिनाशं
    प्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम् ।
    इत्येवं वेगवेगं सकलभयहरं मन्त्रमूर्तिश्च नित्यं
    मन्त्राणां स्तोत्रकं यः पठति स लभतौ प्रार्थितां मन्त्रसिद्धिम् ॥ १२॥
    ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै ।
    ॥ श्रीरागमालिकाकृते चण्डिकास्तोत्रं सम्पूर्णम् ॥
    #tIvrachaNDikAstotram
    #तीव्रचण्डिकास्तोत्रम्

ความคิดเห็น • 8