Aditya hrudayam stotram|श्री आदित्यहृदय स्तोत्र|सर्व रोग निवारण मंगल कामना हेतु रविवार को जरूर सुनें

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 พ.ย. 2024
  • Aditya hrudayam stotram|श्री आदित्यहृदय स्तोत्र|सर्व रोग निवारण मंगल कामना हेतु रविवार को जरूर सुनें
    #adityahrudayamstotram
    #आदित्यहृदयस्तोत्रम्
    #सर्वरोगनिवारणवसर्वमंगलहेतुसुनें
    #रविवारसूर्यवंदना
    #सूर्य_स्तोत्रम्
    #suryamantra
    #surya_stotram
    ॥ अथ श्रीपद्मपुराणोक्त निरोगकारी आदित्यहृदयप्रयोगः ॥
    आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
    तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥
    पञ्चमं च सहस्रांशु षष्ठं चैव त्रिलोचनः ।
    सप्तमं हरिदश्वं च अष्टमं तु अहर्पतिः ॥
    नवमं दिनकरः प्रोक्तं दशमं द्वादशात्मकः ।
    एकादशं त्रिमूर्तिश्च द्वादशं सूर्य एव तु ॥
    ॥ फलश्रुति ॥
    द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।
    दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥
    दद्रुकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् ।
    सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥
    यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः ।
    सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥
    ॥ सूर्यस्य द्वादशनाम नमस्कारम् ॥
    १. ॐ आदित्याय नमः । २. ॐ दिवाकराय नमः ।
    ३. ॐ भास्कराय नमः । ४. ॐ प्रभाकराय नमः ।
    ५. ॐ सहस्रांशवे नमः । ६. ॐ त्रिलोचनाय नमः ।
    ७. ॐ हरिदश्वाय नमः । ८. ॐ विभावसवे नमः ।
    ९. ॐ दिनकराय नमः । १०. ॐ द्वादशात्मकाय नमः ।
    ११. ॐ त्रिमूर्तये नमः । १२. ॐ सूर्याय नमः ॥
    ॥ विनियोगः ॥
    ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः,
    अनुष्टुप्छन्दः, श्रीसूर्यनारायणो देवता, हरितहयरथं दिवाकरं
    घृणिरिति बीजं, नमो भगवते जितवैश्वानर जातवेदसे
    नमः इति शक्तिः, अंशुमानिति कीलकं, अग्नि कर्म इति मन्त्रः,
    मम सर्वरोगनिवारणाय श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ।
    ॥ स्तवः ॥
    अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।
    विन्यसेत् करयोः सूर्यं कर्णयोश्च दिवाकरम् ॥
    नासिकायां न्यसेत् भानुं मुखे वै भास्करं न्यसेत् ।
    पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥
    सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् ।
    बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥
    वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।
    हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥
    स्तनभारं महातेजा आदित्यमुदरे न्यसेत् ।
    पृष्ठे त्वर्घमणं विद्यादादित्यं नाभिमण्डले ॥
    कट्यां तु विन्यसेद्धंसं रुद्रमूर्वो विन्यसेत् ।
    जान्होस्तु गोपतिं न्यस्य सवितारं तु जङ्घयोः ॥
    पादयोस्तु विवस्वन्तं गुल्फयोश्च प्रभाकरम् ।
    सर्वाङ्गेषु सहस्रांशु दिग्विदिक्षु भगं न्यसेत् ॥
    बाह्यतस्तु तमोघ्नंसं भगमभ्यन्तरे न्यसेत् ।
    एष आदित्यविन्यासो देवानामपि दुर्लभः ॥
    ॥ ध्यानम् ॥
    भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचारञ्जितश्चारुकेशो
    भास्वन् यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
    विश्वाकाशावकाशो ग्रहग्रहण सहितो भाति यश्चोदयाद्रौ
    सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥
    ॥ अर्घ्यम् ॥
    एहि सूर्य सहस्रांशो तेजोराशिः जगत्पते ।
    अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥
    ॥ मन्त्रम् ॥
    ॐ घृणिः सूर्य आदित्य ।
    ॥ सूर्यस्तुतिः ॥
    अग्निमीळे नमस्तुभ्यमीषत्तूर्यस्वरूपिणे ।
    अग्न्यायाहि वीतये त्वं नमस्ते ज्योतिषां पते ॥
    शन्नो देवो नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
    धवलाम्भोरुहणं डाकिनीं श्यामलप्रभाम् ॥
    विश्वदीप नमस्तुभ्यं नमस्ते जगदात्मने ।
    पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ॥
    सप्ताश्वरथसंयुक्तो द्विभुजो भास्करो रविः ।
    आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ॥
    जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ।
    नमो धर्मविपाकाय नमः सुकृतसाक्षिणे ॥
    नमः प्रत्यक्षदेवाय भास्कराय नमो नमः ।
    उदयगिरिमुपेतं भास्करं पद्महस्तम् ।
    सकलभुवनरत्नं रत्नरत्नाभिधेयम् ॥
    तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनाम् ।
    सुरवरमभिवन्दे सुन्दरं विश्वरूपम् ॥
    अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
    तस्मात् कारुण्यभावेन रक्षस्व परमेश्वर ॥
    ॥ इति श्रीपद्मपुराणे श्रीकृष्णार्जुनेसंवादे आदित्यहृदयस्तोत्रम् ॥

ความคิดเห็น • 4