ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
कुचेलनामा भवतः सतीर्थ्यतांगतः स सान्दीपनिमन्दिरे द्विजः।त्वदेकरागेण धनादिनिस्पृहोदिनानि निन्ये प्रशमी गृहाश्रमी ॥१॥समानशीलापि तदीयवल्लभातथैवनो चित्तजयं समेयुषी ।कदाचिदूचे बत वृत्तिलब्धयेरमापतिः किं न सखा निषेव्यते ॥२॥इतीरितोऽयं प्रियया क्षुधार्तयाजुगुप्समानोऽपि धने मदावहे ।तदा त्वदालोकनकौतुकाद्ययौवहन् पटान्ते पृथुकानुपायनम् ॥३॥गतोऽयमाश्चर्यमयीं भवत्पुरींगृहेषु शैब्याभवनं समेयिवान् ।प्रविश्य वैकुण्ठमिवाप निर्वृतिंतवातिसंभावनया तु किं पुनः ॥४॥प्रपूजितं तं प्रियया च वीजितंकरे गृहीत्वाऽकथयत् पुरा कृतम्।यदिन्धनार्थं गुरुदारचोदितै-रपर्तुवर्षं तदमर्षि कानने ॥५॥त्रपाजुषोऽस्मात् पृथुकं बलादथप्रगृह्य मुष्टौ सकृदाशिते त्वयाकृतं कृतं नन्वियतेति संभ्रमा-द्रमा किलोपेत्य करं रुरोध ते ॥६॥भक्तेषु भक्तेन स मानितस्त्वयापुरीं वसन्नेकनिशां महासुखम् ।बतापरेद्युर्द्रविणं विना ययौविचित्ररूपस्तव खल्वनुग्रहः ॥७॥यदि ह्ययाचिष्यमदास्यदच्युतोवदामि भार्यां किमिति व्रजन्नसौ।त्वदुक्तिलीलास्मितमग्नधीः पुनःक्रमादपश्यन्मणिदीप्रमालयम् ॥८॥किं मार्गविभ्रंश इति भ्रमन् क्षणंगृहं प्रविष्टः स ददर्श वल्लभाम् ।सखीपरीतां मणिहेमभूषितांबुबोध च त्वत्करुणां महाद्भुताम् ॥९॥स रत्नशालासु वसन्नपि स्वयंसमुन्नमत्भक्तिभरोऽमृतं ययौ ।त्वमेवमापूरित भक्तवाञ्छितोमरुत्पुराधीश हरस्व मे गदान् ॥१०॥
Thank you so much for this wonderful translation and lyrics, I had a tough time looking for it in internet. 🙏🙏🙏🙏🙏
इस स्तव का नाम क्या है -?
With meaning @@अच्युतसोमानंदनाथसोमानंदनाथ
Om namo bhagwate vasu devay namh
ॐ नमो नारायणाय❤😍🙏❤😍🙏❤😍🙏❤😍🙏
Om namo Narayana🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Beautifully sung
Very beautiful music
All the best for you bangaram s
My favourite 🙏🙏🙏🙏
Nice...stotram
Wow so beautiful fine fine tq tq
Отлично !!!
कुचेलनामा भवतः सतीर्थ्यतां
गतः स सान्दीपनिमन्दिरे द्विजः।
त्वदेकरागेण धनादिनिस्पृहो
दिनानि निन्ये प्रशमी गृहाश्रमी ॥१॥
समानशीलापि तदीयवल्लभा
तथैवनो चित्तजयं समेयुषी ।
कदाचिदूचे बत वृत्तिलब्धये
रमापतिः किं न सखा निषेव्यते ॥२॥
इतीरितोऽयं प्रियया क्षुधार्तया
जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद्ययौ
वहन् पटान्ते पृथुकानुपायनम् ॥३॥
गतोऽयमाश्चर्यमयीं भवत्पुरीं
गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं
तवातिसंभावनया तु किं पुनः ॥४॥
प्रपूजितं तं प्रियया च वीजितं
करे गृहीत्वाऽकथयत् पुरा कृतम्।
यदिन्धनार्थं गुरुदारचोदितै-
रपर्तुवर्षं तदमर्षि कानने ॥५॥
त्रपाजुषोऽस्मात् पृथुकं बलादथ
प्रगृह्य मुष्टौ सकृदाशिते त्वया
कृतं कृतं नन्वियतेति संभ्रमा-
द्रमा किलोपेत्य करं रुरोध ते ॥६॥
भक्तेषु भक्तेन स मानितस्त्वया
पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेद्युर्द्रविणं विना ययौ
विचित्ररूपस्तव खल्वनुग्रहः ॥७॥
यदि ह्ययाचिष्यमदास्यदच्युतो
वदामि भार्यां किमिति व्रजन्नसौ।
त्वदुक्तिलीलास्मितमग्नधीः पुनः
क्रमादपश्यन्मणिदीप्रमालयम् ॥८॥
किं मार्गविभ्रंश इति भ्रमन् क्षणं
गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखीपरीतां मणिहेमभूषितां
बुबोध च त्वत्करुणां महाद्भुताम् ॥९॥
स रत्नशालासु वसन्नपि स्वयं
समुन्नमत्भक्तिभरोऽमृतं ययौ ।
त्वमेवमापूरित भक्तवाञ्छितो
मरुत्पुराधीश हरस्व मे गदान् ॥१०॥
Thank you so much for this wonderful translation and lyrics, I had a tough time looking for it in internet. 🙏🙏🙏🙏🙏
इस स्तव का नाम क्या है -?
With meaning @@अच्युतसोमानंदनाथसोमानंदनाथ
Om namo bhagwate vasu devay namh
ॐ नमो नारायणाय❤😍🙏❤😍🙏❤😍🙏❤😍🙏
Om namo Narayana🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Beautifully sung
Very beautiful music
All the best for you bangaram s
My favourite 🙏🙏🙏🙏
Nice...stotram
Wow so beautiful fine fine tq tq
Отлично !!!