" सानन्दमानन्दवने वसन्तम " - Sananda manandavane Vasantm || काशी विश्वनाथ मंत्र -

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.พ. 2025
  • #MritunjayHiremath #shivstrotam #shiv #sanandmanad
    #dwadashjyotirling #Grushneshwar Jyotirlinga #shiv #shivstrotam
    Subscrive For More...
    सानन्दमानन्दवने वसन्तम || Sananda manandavane Vasantm, काशी विश्वनाथ मंत्र -Meditation #shivstrotam
    श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
    तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2
    अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
    अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3
    कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
    सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4
    पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
    सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5
    याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
    सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6
    महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
    सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7
    सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
    यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8
    सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
    श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9
    यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
    सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10
    सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
    वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11
    इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
    वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12
    ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
    स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13
    ॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥
    स्वर - परम शैव पं. मृत्युंजय हिरेमठ जी
    द्वादश ज्योतिर्लिंग मंत्र - सौराष्ट्रे सोमनाथं | द्वादश(12) शिव ज्योतिर्लिंग
    शिव चालीसा | लिङ्गाष्टकम् | शिव आरती | शिव भजन | शिव पंचाक्षर स्तोत्र
    #peaceful #peacefulmusic #god #twinflame
    #MritunjayHiremath #श्रीद्वादशज्योतिर्लिंगस्तोत्रम् #DwadashJyotirlingaStotram
    #श्रीद्वादशज्योतिर्लिंगस्तोत्रम् #DwadashJyotirlingaStotram #MritunjayHiremath

ความคิดเห็น •