श्रीमद भगवद गीता पाठ|15वाँ अध्याय|shrimad bhagwad geeta chanting|শ্রীমদ্ভগদ্ গীতা পাঠ|পঞ্চদশ অধ্যায়

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ต.ค. 2024
  • আধ্যাত্মিক জ্ঞান ও মার্গ দর্শনের জন্য ভগবান শ্রীকৃষ্ণের মুখ নিসৃত বাণী 'শ্রীমদ্ভগদ্গীতা'।
    এই অধ্যায়ে ভগবান পুরুষোত্তম সম্বন্ধে সম্যক জ্ঞান প্রদর্শন করেছেন।
    श्रीभगवानुवाच
    ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ॥१५.१॥
    अधश्चोर्ध्वं प्रसृतास् तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ||१५.२||
    न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा । अश्वत्थम् एनं सुविरूढमूलम् असगशस्त्रेण दृढेन छित्त्वा ॥१५.३॥
    ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति तम् एव चाद्यं पुरुषं प्रपद्ये भूयः यतः प्रवृत्तिः प्रसृता पुराणी ॥१५.४॥
    निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
    द्वन्द्वैर् विमुक्ताः सुखदुःखसंज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥१५.५॥
    न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥१५.६॥
    ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५.७||
    शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥१५.८॥
    श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश्चायं विषयान् उपसेवते ॥१५.६॥
    उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५.१०।।
    यतन्तो योगिनश्चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तोऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ||१५.११||
    यद् आदित्यगतं तेजो जगद् भासयतेऽखिलम्। यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ||१५.१२॥
    गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५.१३॥
    अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः। प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् ॥१५.१४॥
    सर्वस्य चाहं हृदि संनिविष्टो वेदान्तकृद् वेदविद् एव चाहम् ||१५.१५॥
    मत्तः स्मृतिर् ज्ञानम् अपोहनं च । वेदैश्च सर्वैर् अहम् एव वेद्यो
    द्वाव् इमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५.१६॥
    उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः। यो लोकत्रयम् आविश्य बिभत्य् अव्यय ईश्वरः ||१५.१७||
    यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५.१८॥
    यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत ॥१५.१६॥
    इति गुह्यतमं शास्त्रम् इदम् उक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ||१५.२०॥

ความคิดเห็น • 4