021 Mahanarayana Upanishad - Pujyasri Omkarananda Mahaswamiji

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ธ.ค. 2024
  • शत्रुजय मन्त्राः (4.5)
    यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑य-ङ्कृधि । मघ॑वन् छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पति॑-र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु न-स्स्वस्ति॒दा अ॑भयङ्क॒रः । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वा-स्स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमि-स्स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु । आपा᳚न्त-मन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒-श्शिमी॑वां॒-छरु॑माग्ं ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिन्द्र॑-म्प्रति॒माना॑नि देभुः ॥ 1.44
    ब्रह्म॑ जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ । स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः᳚ । ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् । श्री᳚र्मे भ॒जतु । अलक्ष्मी᳚र्मे न॒श्यतु । विष्णु॑मुखा॒ वै दे॒वा-श्छन्दो॑-भिरि॒मांल्लोँ॒का-न॑नपज॒य्य-म॒भ्य॑जयन्न् । म॒हाग्ं इन्द्रो॒ वज्र॑बाहु-ष्षोड॒शी शर्म॑ यच्छतु ॥ 1.48 (तै. अर. 6.1.10)
    स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒-योँ᳚-ऽस्मा-न्द्वेष्टि॑ । सो॒मान॒ग्ग्॒ स्वर॑ण-ङ्कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒-यँ औ॑शि॒जम् । शरी॑रं-यँज्ञशम॒ल-ङ्कुसी॑द॒-न्तस्मि᳚-न्थ्सीदतु॒ यो᳚-ऽस्मा-न्द्वेष्टि॑ । चर॑ण-म्प॒वित्रं॒-विँत॑त-म्पुरा॒णं-येँन॑ पू॒त-स्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒-मरा॑ति-न्तरेम । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒-स्सोम॑-म्पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ग्ं॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑य-ङ्कृणुहि वि॒श्वतो॑ नः । सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒-र्या᳚-ऽस्मा-न्द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्मः । आपो॒ हिष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । 1.53 (तै. अर. 6.1.11)
    म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒-स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒ती-रि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ 1.54 (तै. अर. 6.1.12)

ความคิดเห็น •