Shailputri Stotra|| नवरात्रि प्रथम दिन में सुनें शैलपुत्री स्तोत्र|| सभी मनोकामनाओं की पूर्ति के लिए

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • Shailputri Stotra|| नवरात्रि प्रथम दिन में सुनें शैलपुत्री स्तोत्र|| सभी मनोकामनाओं की पूर्ति के लिए
    #ShailputriStotra
    #नवरात्रिप्रथमदिनमेंसुनेंशैलपुत्रीस्तोत्र
    #सभीमनोकामनाओंकीपूर्तिकेलिए
    हिमालयराजकृत शैलपुत्रीस्तुतिः
    हिमालय उवाच ।
    मातस्त्वं कृपयागृहे मम सुता जातासि नित्यापि
    यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् ।
    दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि
    माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥ १॥
    श्रीदेव्युवाच ।
    ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् ।
    छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥ २॥
    श्रीमहादेव उवाच ।
    इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम् ।
    स्वरूपं दर्शयामास दिव्यं माहेश्वरं तदा ॥ ३॥
    शशिकोटिप्रभं चारुचन्द्रार्धकृतशेखरम् ।
    त्रिशूलवर हस्तं च जटामण्डितमस्तकम् ॥ ४॥
    भयानकं घोररूपं कालानलसहस्रभम् ।
    पञ्चवक्त्रं त्रिनेत्रं च नागयज्ञोपवीतिनम् ॥ ५॥
    द्वीपिचर्माम्बरधरं नागेन्द्रकृतभूषणम् ।
    एवं विलोक्य तद्रूपं विस्मितो हिमवान् पुनः ॥ ६॥
    प्रोवाच वचनं माता रूपमन्यत्प्रदर्शय ।
    ततः संहृत्य तद्रूपं दर्शयामास तत्क्षणात् ॥ ७॥
    रूपमन्यन्मुनिश्रेष्ठ विश्वरूपा सनातनी ।
    शरच्चन्द्रनिभं चारुमुकुटोज्ज्वलमस्तकम् ॥ ८॥
    शङ्खचक्रगदापद्महस्तं नेत्रत्रयोज्ज्वलम् ।
    दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ९॥
    योगीन्द्रवृन्दसंवन्द्यं सुचारुचरणाम्बुजम् ।
    सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ १०॥
    दृष्ट्वा तदेतत्परमं रूपं स हिमवान् पुनः ।
    प्रणम्य तनयां प्राह विस्मयोत्फुल्ललोचनः ॥ ११॥
    हिमालय उवाच ।
    मातस्तवेदं परमं रूपमैश्वरमुत्तमम् ।
    विस्मितोऽस्मि समालोक्य रूपमन्यत्प्रदर्शय ॥ १२॥
    त्वं यस्य सो ह्यशोच्यो हि धन्यश्च परमेश्वरि ।
    अनुगृह्णीष्व मातर्मां कृपया त्वां नमो नमः ॥ १३॥
    श्रीमहादेव उवाच ।
    इत्युक्ता सा तदा पित्रा शैलराजेन पार्वती ।
    तद्रूपमपि संहृत्य दिव्यं रूपं समादधे ॥ १४॥
    नीलोत्पलदलश्यामं वनमालाविभूषितम् ।
    शङ्खचक्रगदापद्ममभिव्यक्तं चतुर्भुजम् ॥ १५॥
    एवं विलोक्य तद्रूपं शैलानामधिपस्ततः ।
    कृताञ्जलिपुटः स्थित्वा हर्षेण महता युतः ॥ १६॥
    स्तोत्रेणानेन तां देवीं तुष्टाव परमेश्वरीम् ।
    सर्वदेवमयीमाद्यां ब्रह्मविष्णुशिवात्मिकाम् ॥ १७॥
    हिमालय उवाच ।
    मातः सर्वमयि प्रसीद परमे विश्वेशि विश्वाश्रये
    त्वं सर्वं नहि किञ्चिदस्ति भुवने तत्त्वं त्वदन्यच्छिवे ।
    त्वं विष्णुर्गिरिशस्त्वमेव नितरां धातासि शक्तिः परा
    किं वर्ण्यं चरितं त्वचिन्त्यचरिते ब्रह्माद्यगम्यं मया ॥ १८॥
    त्वं स्वाहाखिलदेवतृप्तिजननी विश्वेशि त्वं वै स्वधा
    पितॄणामपि तृप्तिकारणमसि त्वं देवदेवात्मिका ।
    हव्यं कव्यमपि त्वमेव नियमो यज्ञस्तपो दक्षिणा
    त्वं स्वर्गादिफलं समस्तफलदे देवेशि तुभ्यं नमः ॥ १९॥
    रूपं सूक्ष्मतमं परात्परतरं यद्योगिनो विद्यया
    शुद्धं ब्रह्ममयं वदन्ति परमं मातः सुदृप्तं तव ।
    वाचा दुर्विषयं मनोऽतिगमपि त्रैलोक्यबीजं शिवे
    भक्त्याहं प्रणमामि देवि वरदे विश्वेश्वरि त्राहिमाम् ॥ २०॥
    उद्यत्सूर्यसहस्रभां मम गृहे जातां स्वयं लीलया
    देवीमष्टभुजां विशालनयनां बालेन्दुमौलिं शिवाम् ।
    उद्यत्कोटिशशाङ्ककान्तिनयनां बालां त्रिनेत्रां परां
    भक्त्या त्वां प्रणमामि विश्वजननी देवि प्रसीदाम्बिके ॥ २१॥
    रूपं ते रजताद्रिकान्तिविमलं नागेन्द्रभूषोज्ज्वलं
    घोरं पञ्चमुखाम्बुजत्रिनयनैईमैः समुद्भासितम् ।
    चन्द्रार्धाङ्कितमस्तकं धृतजटाजूटं शरण्ये शिवे
    भक्त्याहं प्रणमामि विश्वजननि त्वां त्वं प्रसीदाम्बिके ॥ २२॥
    रूपं ते शारदचन्द्रकोटिसदृशं दिव्याम्बरं शोभनं
    दिव्यैराभरणैर्विराजितमलं कान्त्या जगन्मोहनम् ।
    दिव्यैर्बाहुचतुष्टयैर्युतमहं वन्दे शिवे भक्तितः
    पादाब्जं जननि प्रसीद निखिलब्रह्मादिदेवस्तुते ॥ २३॥
    रूपं ते नवनीरदद्युतिरुचिफुल्लाब्जनेत्रोज्ज्वलं,
    कान्त्या विश्वविमोहनं स्मितमुखं रत्नाङ्गदैर्भूषितम् ।
    विभ्राजद्वनमालयाविलसितोरस्कं जगत्तारिणि,
    भक्त्याहं प्रणतोऽस्मि देवि कृपया दुर्गे प्रसीदाम्बिके ॥ २४॥
    मातः कः परिवर्णितुं तव गुणं रूपं च विश्वात्मकं
    शक्तो देवि जगत्रये बहुगुणैर्देवोऽथवा मानुषः ।
    तत् किं स्वल्पमतिब्रवीमि करुणां कृत्वा स्वकीयै-
    र्गुणैर्नो मां मोहय मायया परमया विश्वेशि तुभ्यं नमः ॥ २५॥
    अद्य मे सफलं जन्म तपश्च सफलं मम ।
    यत्त्वं त्रिजगतां माता मत्पुत्रीत्वमुपागता ॥ २७॥
    धन्योऽहं कृतकृत्योऽहं मातस्त्व निजलीलया ।
    नित्यापि मद्गृहे जाता पुत्रीभावेन वै यतः ॥ २७॥

ความคิดเห็น • 26